सौराष्ट्रे सोमनाथम् च श्री शैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालम् अोंकारममलेश्वरम् ॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरम् ।
सेतुबन्धे तु रामेशं नागेशं दारुकावने।
वाराणस्यां तु विश्वेशं त्र्यम्बंक गौतमी तटे ॥
हिमालये तु केदारं घृष्णेशं च शिवालये ॥
एतानि ज्योतिर्लिंगानि प्रातरुत्थाय य: पठेत् ।
जन्मान्तर कृत पापं स्मरणेन विनश्यति ॥
इति द्वादश ज्योतिर्लिङ्गानि स्तोत्रम् सम्पूर्णम्।
श्री शिवारपणमस्तु।।
No comments:
Post a Comment